अष्टाध्यायी सूत्रपाठ: – Ashtadhyayi Sutrapatha

150.00320.00

Pushpa Dikshit

ग्रन्थमिमधिकृत्य किञ्चित्नभस्यादित्यं परितो ग्रहा इव बम्भ्रमीतिनिखिलो वैदिको लौकिकश्च शब्दराशिःपाणिन्यष्यध्यार्थी परितः। भगवता पाणिनिनामहति समाधियोग आस्थायास्य निखिलशब्दराशे: प्रत्यक्षमेककालावच्छेदेन कृतमत एवतत्र न किमपि रिष्यति। अत्राष्टस्वध्यायेषुविभक्तानि सूत्राणि शब्दस्यान्तः प्रविश्य, प्रकृतिंप्रत्ययं च विभज्य, तत्रत्यं सर्व प्रकाशयन्ति ।

ग्रन्थमिमधिकृत्य किञ्चित्नभस्यादित्यं परितो ग्रहा इव बम्भ्रमीतिनिखिलो वैदिको लौकिकश्च शब्दराशिःपाणिन्यष्यध्यार्थी परितः। भगवता पाणिनिनामहति समाधियोग आस्थायास्य निखिलशब्दराशे: प्रत्यक्षमेककालावच्छेदेन कृतमत एवतत्र न किमपि रिष्यति। अत्राष्टस्वध्यायेषुविभक्तानि सूत्राणि शब्दस्यान्तः प्रविश्य, प्रकृतिंप्रत्ययं च विभज्य, तत्रत्यं सर्व प्रकाशयन्ति । एतत्सर्वमद्भुतमिव यद् भगवता पाणिनिना शब्दानांसिद्ध्यर्थ शब्दा नोक्ता अपितु तत्रत्यानलोपागमवर्णविकारान् मनस्याकलय्यैकैकस्यकार्यस्य कृते सूत्राणि प्रोक्तानि। तानि चसूत्राण्यधिकारेषु प्रकरणेषु च निबद्धानि सन्ति।एकैकस्मिन् प्रकरण एकैकं कार्यं नि:शेषीक्रियते,येन तद्विषयिविचिकित्साव्यपोहो जायते। सन्तिचैतानि प्रकरणान्यष्टाध्याय्यां तिलतण्डुलवद्विभक्तानि, येषां विज्ञानेन शब्दसाक्षात्कारोभवति । महता देवेन सायुज्यमप्यनेनैवाधिगम्यते ।अधिकाराणां, प्रकरणानां च विज्ञानं विहायाष्टाध्यायीसूत्रपाठोऽपि निगदेनैव शब्द्यमान: कामान्दोग्धं नालं भवति, का कथा पुनरष्टाध्याय विनाप्रक्रियाग्रन्थेषु कृतस्यान्धयत्नस्य।सर्वेषाशाख्त्राणां मुखं व्याकरणम्। तस्माच्चबिभेति लोकः प्रक्रियाकाठिन्यात्। अतोमयाष्टाध्याय्या: स्वत: प्रकाशित : पन्था:प्रकरणानां विभाजनं प्रदर्य सर्वदृग्गोचरीकृतः।पाणिनेरिदं महत्सुविहितं सामान्यविशेषवल्लक्षणमाश्रित्य विश्वस्य कापि भाषा व्याकरतृुशक्यते अतः सर्ववेदपारिषदं हीदं शास्त्रं ।

Bind Type

Hardbound, Paperback

Reviews

There are no reviews yet.

Only logged in customers who have purchased this product may leave a review.