नव्यन्यायभाषाप्रविधिविचार (मधुसूदनीविवृति रसगङ्गाधराधारित) इति नामा सन्दर्भोऽयं सप्तदशशताब्द्यात्मकस्यपण्डितराजजगन्नाथविर चितस्य परम्परा ऽऽधुनिककाव्यशा स्त्रीयचिन्तनयोस्सङ्गमभूतस्य रसगङ्गाधरनाम्नः काव्यशास्त्रीयग्रन्थस्योपरि नव्यन्यायशैल्या मधुसूदनशास्त्रिणा विरचितस्य मधुसूदनी विवृतिटीकाविषयकनव्यन्यायभाषायाः तत्प्रविधेश्व समुन्मीलनं प्रथमाननपर्यन्तमेव करोति ।
नव्यन्यायभाषाप्रविधिविचारप्रसङ्ग एव रसगङ्गाधर निष्ठकाव्यशास्त्रीयतत्त्वानां मधुसूदनीटीकायां पर्यालोचितस्य विवरणस्य सहजरीत्या सम्यगव बोधनार्थं नव्यन्यायभाषात्मकस्य वाक्यस्य रेखाचित्रीयनिरूपणमपि ग्रन्थस्यास्य अन्यदपि किञ्चिद्वैशिष्ट्यं वर्तते येन नव्यन्यायभाषायां लिखितस्य काव्यतत्त्वस्य ज्ञानं सामान्यसंस्कृत साहित्यप्रविविक्षवोऽप्यल्पप्रयासेन कर्तुं शक्नुवन्ति अत एव ग्रन्थोऽयं रसगङ्गाधरस्य कृते मधुसूदनीविवृत्तिटीकागतनव्यन्यायभाषायां लिखित स्य काव्यतत्त्वानां ज्ञानस्य कृते च महदुपकारकारक वरीवर्तीति मे दृढविश्वासः।
Reviews
There are no reviews yet.