अनन्तो वर्तते शब्दराशिलौकिको वैदिकञ्च तस्य प्रतिपत्ती प्रतिपदपाठमनभ्युपायं मत्वा भगवता पाणिनिना यत् सामान्यविशेषणं कृतं तदेवाष्टाध्यायी अत्र पञ्च प्रक्रियाः सन्ति धातूदेश्यकप्रक्रिया, सुबन्तप्रक्रिया, तद्धितप्रक्रिया, स्वरप्रक्रिया च निखिलेऽस्मिन् विश्वे प्रसिद्धेषु सिद्धान्तकौमुद्यादिषु प्रक्रियाग्रन्थेषु अन्येषु च नामिकेष्वाख्यातिकादिषु चाश्रितः प्रक्रियाक्रमः पाणिनेः सर्वथाऽसम्मतोऽवैज्ञानिकश्च वर्तते। अयं नास्ति लौकिक वैदिकशब्दानां सिद्धेः स उपायो, यः खलु भगवता पाणिनिनोपदिष्टो, भगवता पतञ्जलिना च साक्षात्कृतः। सच प्रकाशितः पन्थाः सिद्धान्तकौमुद्यादिभिः प्रक्रिया ग्रन्थैर्घनान्धकारे निक्षिप्तः।
अतो मयास्यां पौष्यां पाणिनीयप्रक्रियायां शब्द सिद्धे: सामान्यविशेषवान् स एवोपाय: प्रकटीकृतो यो भगवता पाणिनिनाऽनन्तशब्दराशेर्व्युत्पादनाय साक्षादु पदिष्ट: अयमेवास्ति शब्दसिद्धेर्लघुतमः पन्था, यो मया साक्षात्कृत्य ‘अष्टाध्यायी सहज बोध’ इति नाम्ना राष्ट्रभाषायां षट्सु भागेषु, अथ च ‘ पौष्पी नव्यसिद्धान्त कौमुदी’ इति नाम्रा देवभाषायां सप्तसु भागेषु निर्दिष्टः। धात्वधिकारीयप्रत्ययानां द्वौ विभागौ भवतः। सार्वधातुक -प्रत्यया, आर्धधातुकप्रत्ययाश्च
तत्रायं सार्वधातुकप्रत्ययभागः प्रकाश्यते। अत्र सूत्राणि प्रायेणाष्टाध्याय्याः क्रमं न व्यभिचरन्ति, तेन नास्त्यत्रानुवृत्तिक्लेशः । यथा प्रक्रियाग्रन्थेष्वादौ लक्ष्यं पुरस्कृत्य तदनुसारेण सूत्राण्युपस्थाप्यन्ते तैश्च बहुभिः सूत्रैरेक एव प्रयोग: साध्यते, अन्ये प्रयोगा बुद्धिगम्या एवावतिष्ठन्ते, अथ च सूत्रस्यावशिष्टार्थोऽपि बुद्धिगम्य एवावतिष्ठते, तथा नास्त्यत्र नव्यसिद्धान्तकौमुद्याम् ।
अत्र सूत्रविषयकं सर्व सूत्रस्थल एवं व्याख्याय तत्रैव चोदाहृत्य नि:शेषीक्रियते ।
अनेन पाणिनीयक्रमेणाधीयते चेत् सर्वा खलु पाणिनीया प्रक्रिया षड्भिर्मासैरधिगता भवतीति, नास्त्यत्र संशीतिलेशोऽपीति शम्।
Reviews
There are no reviews yet.